|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.92. अध्यायः 092
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
नकुलेन युधिष्ठिरादीन्प्रति सकुटुम्बस्योञ्छवृत्तेर्ब्राह्मणस्य धर्मपुरुषाय सक्तुप्रस्तदानमहिमवर्णनपूर्वकंपुनस्तत्रैवान्तर्धानम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
नकुल उवाच।
हन्त वः कथयिष्यामि दानस्य फलमुत्तमम्।
न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः॥ 14-92-1(95089)
धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते।
उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा॥ 14-92-2(95090)
सभार्यः सहपुत्रेण सस्नुषस्तपसि स्थितः।
बभूव शुक्लवृत्तः स धर्मात्मा नियतेन्द्रियः॥ 14-92-3(95091)
षष्ठे काले सदा विप्रो भुङ्क्ते तैः सह संवृतः॥ 14-92-4(95092)
षष्ठे काले कदाचित्तु तस्याहारो न विद्यते।
भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः॥ 14-92-5(95093)
कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे।
नाविद्यत तदा विप्राः संचयस्तन्निबोधत॥ 14-92-6(95094)
क्षीणाषैदिसमावापो द्रव्यहीनोऽभवत्तदा।
कालेकालेऽस्य सम्प्राप्ते नैव विद्येत भोजनम्॥ 14-92-7(95095)
क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते।
उञ्छं तदा शुक्लपक्षे मध्यं तपति भास्करे॥ 14-92-8(95096)
उष्णार्तश्च क्षुधार्तश्च विप्रस्तपसि संस्थितः।
उञ्छमप्राप्तवानेव ब्राह्मणः क्षुच्छ्रमान्वितः॥ 14-92-9(95097)
स तथैव क्षुधाविष्टः सार्धं परिजनेन ह।
क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः॥ 14-92-10(95098)
अथ षष्ठे गते काले यवप्रस्थमुपार्जयन्।
यवप्रस्थं तु तं सक्तूनकुर्वन्त तपस्विनः॥ 14-92-11(95099)
कृतजप्याह्निकास्ते तु हुत्वा चाग्निं यथाविधि।
कुडवंकुडवं सर्वे व्यभजन्त तपस्विनः॥ 14-92-12(95100)
अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा।
ते तं दृष्ट्वाऽतिथिं प्राप्तं प्रहृष्टमनसोऽभवन्॥ 14-92-13(95101)
तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा।
विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः॥ 14-92-14(95102)
अनसूया गतक्रोधाः साधवो वीतमत्सराः।
त्यक्तमानमदक्रोधा धर्मज्ञा द्विजसत्तमाः॥ 14-92-15(95103)
सब्रह्यचर्यं गोत्रं ते तस्य ख्यात्वा परस्परम्।
कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा॥ 14-92-16(95104)
इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ।
शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो।
प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजर्षभ॥ 14-92-17(95105)
इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः।
भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः॥ 14-92-18(95106)
स उञ्छवृत्तिस्तं प्रेक्ष्य क्षुधापरिगतं द्विजम्।
आहारं चिन्तयामास कथं तुष्टो भवेदिति॥ 14-92-19(95107)
तस्य भार्याऽब्रवीद्वाक्यं मद्भागो दीयतामिति।
गच्छत्वेष यथाकामं परितुष्टो द्विजोत्तमः॥ 14-92-20(95108)
इति ब्रुवन्तीं तां साध्वीं भार्यां स द्विजसत्तमः।
क्षउधापरिगतां ज्ञात्वा तान्सक्तून्नाभ्यनन्दत॥ 14-92-21(95109)
आत्मानुमानतो विद्वान्स तु विप्रर्षभस्तदा।
जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम्।
त्वगस्थिभूता वेपन्तीं ततो भार्यामुवाच ह॥ 14-92-22(95110)
अपि कीटपतङ्गानां मृगाणां चैव शोभने।
स्त्रियो रक्ष्याश्च पोष्पाश्च न त्वेवं वक्तुमर्हसि॥ 14-92-23(95111)
अनुकंप्यो नरः पत्न्या पुष्टो रक्षित एव च।
प्रपतेद्यशसो दीप्तात्स च लोकान्न चाप्नुयात्॥ 14-92-24(95112)
धर्मकामार्थकार्याणि शुश्रूषाकुलसंततिः।
दारेष्वदीनो धर्मस्च पितॄणामात्मनस्तथा॥ 14-92-25(95113)
न वेत्ति कर्मतो भार्यारक्षणे योऽक्षमः पुमान्।
अयशो महदाप्नोति नारकांश्चैव गच्छति॥ 14-92-26(95114)
इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज।
सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे॥ 14-92-27(95115)
सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः।
स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजर्षभ॥ 14-92-28(95116)
ऋतुर्मातु पितुर्बीजं दैवतं परमं पतिः।
भर्तुः प्रसादान्नारीणां रतिपुत्रफलं तथा॥ 14-92-29(95117)
पालनाद्धि पतिस्त्वं मे भर्ताऽसि भरणाच्च मे।
पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्प्रयच्छ मे॥ 14-92-30(95118)
जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम्।
उपवासपरिश्रान्तो यदा त्वमपि कर्शितः॥ 14-92-31(95119)
इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत्।
द्विजि सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम॥ 14-92-32(95120)
स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः।
तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत्॥ 14-92-33(95121)
पुत्र उवाच। 14-92-34x(7924)
सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम।
इत्येव सुकृतं मन्ये तस्मादेतत्करोम्यहम्॥ 14-92-34(95122)
भवान्हि परिपाल्यो मे सर्वदैव प्रयत्नतः।
साधूनां काङ्क्षितं यस्मात्पितुर्वृद्धस्य पालनम्॥ 14-92-35(95123)
पुत्रार्थो विहितो ह्येष वार्धके परिपालनम्॥
श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु शाश्वती॥ 14-92-36(95124)
प्राणाधारणमात्रेण शक्यं कर्तुं तपस्त्वया।
प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम्॥ 14-92-37(95125)
पितोवाच। 14-92-38x(7925)
अपि वर्षसहस्री त्वं बाल एव मतो मम।
उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवेत्सुतात्॥ 14-92-38(95126)
बालानां क्षुद्बलवती जानाम्येतदहं प्रभो।
वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक॥ 14-92-39(95127)
जीर्णेन वयसा पुत्र न मां क्षुद्बाधतेऽपि च।
दीर्घकालं तपस्तप्तं न मे मरणतो भयम्॥ 14-92-40(95128)
पुत्र उवाच। 14-92-41x(7926)
अपत्यमस्मि ते पुंसस्त्राणात्पुत्र इति स्मृतः।
आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना॥ 14-92-41(95129)
पितोवाच। 14-92-42x(7927)
रूपेण सदृशस्त्वं मे शीलेन च दमेन च।
परीक्षितश्च बहुधा सक्तूनादद्मि ते सुत॥ 14-92-42(95130)
इत्युक्त्वाऽऽदाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः।
प्रहसन्निव विप्राय स तस्मै प्रददौ तदा॥ 14-92-43(95131)
भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह।
उच्छवृत्तिस्तु धर्मात्मा व्रीडामनुजगाम ह॥ 14-92-44(95132)
तं वै वधूः स्थिता साध्वी ब्राह्मणिप्रियकाम्यया।
सक्तूनादाय संहृष्टा श्वशुरं वाक्यमब्रवीत्॥ 14-92-45(95133)
संतानात्तव संतानं मम विप्र भविष्यति।
सक्तूनिमानतिथये गृहीत्वा सम्प्रयच्छ मे॥ 14-92-46(95134)
तव प्रसादान्निर्वृत्ता मम लोकाः किलाक्षयाः।
पुत्रेण तानवाप्नोति यत्र गत्वा न शोचति॥ 14-92-47(95135)
धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च।
तथैव पुत्रपौत्राणां स्वर्गस्त्रेता किलाक्षयः॥ 14-92-48(95136)
पितॄणात्तारयति पुत्र इत्यनुशुश्रुम।
पुत्रपौत्रैश्च नियतं सादुलोकानुपाश्नुते॥ 14-92-49(95137)
श्वशुर उवाच। 14-92-50x(7928)
वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै।
कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम्॥ 14-92-50(95138)
कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः।
कल्याणवृत्ते कल्याणि नैव त्वं वक्तुमर्हसि॥ 14-92-51(95139)
षष्ठे काले व्रतवतीं शौचशीलतपोन्विताम्।
कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं शुभे॥ 14-92-52(95140)
बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया।
उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी॥ 14-92-53(95141)
स्नुषोवाच। 14-92-54x(7929)
गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम्।
देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे प्रभो॥ 14-92-54(95142)
देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः।
तव विप्र प्रसादेन लोकान्प्राप्स्यामहे शुभान्॥ 14-92-55(95143)
अवेक्ष्या इति कृत्वाऽहं दृढभक्तेति वा द्विज।
चिन्त्या ममेयमिति वा सक्तूनादानुमर्हसि॥ 14-92-56(95144)
श्वशुर उवाच। 14-92-57x(7930)
अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे।
या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे॥ 14-92-57(95145)
तस्मात्सक्तून्ग्रहीष्यामि वधु नार्हसि वञ्चनाम्।
गणयित्वा महाभागे त्वां हि धर्मभृतां वरे॥ 14-92-58(95146)
इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये।
ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः॥ 14-92-59(95147)
प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम्।
वाग्मी तदा द्विजश्रेष्टो धर्मः पुरुषविग्रहः॥ 14-92-60(95148)
शुद्धेनि तव दानेन न्यायोपात्तेन धर्मतः।
यथाशक्ति विसृष्टेन प्रीतोस्मि द्विजसत्तम॥ 14-92-61(95149)
अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः।
गगनात्पुष्पवर्षं च पश्येदं पतितं भुवि॥ 14-92-62(95150)
सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः।
स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः॥ 14-92-63(95151)
ब्रह्मर्षयो विमानस्था ब्रह्मलोकचरश्च ये।
काङ्क्षन्ते दर्शनं तुभ्यं दिवं व्रज द्विजर्षभ॥ 14-92-64(95152)
पितृलोकगताः सर्वे तारिताः पितरस्त्वया।
अनागताश्च बहवः सुबहूनि युगान्युत॥ 14-92-65(95153)
ब्रह्मचर्येण दानेन यज्ञेनि तपसा तथा।
अगह्वरेण धर्मेण तस्माद्गच्च दिवं द्विज॥ 14-92-66(95154)
श्रद्धया परया यरत्वं तपश्चरसि सुव्रत।
तस्माद्देवास्तवानेन प्रीता ब्राह्मणसत्तम॥ 14-92-67(95155)
सर्वमेतद्धि यस्मात्ते दत्तं शुद्धेन चेतसा।
कृच्छ्रकाले ततः स्वर्गो विजितः कर्मणा त्वया॥ 14-92-68(95156)
क्षुधा निर्णुदति प्रज्ञां धर्मबुद्धिं व्यपोहति।
क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह॥ 14-92-69(95157)
बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम्।
यदा दानरुचिः स्याद्वै तदा धर्मो न सीदति॥ 14-92-70(95158)
अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च।
धर्ममेव गुरं ज्ञात्वा तृष्णा न गणिता त्वया॥ 14-92-71(95159)
द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम्।
कालः परतरो दानाच्छ्रद्धा चैव ततः परा॥ 14-92-72(95160)
स्वर्गद्वारं सुसूक्ष्मं हि नरैर्माहान्नि दृश्यते।
सङ्गर्गलं लोभकीलं रागगुप्तं दुरासदम्॥ 14-92-73(95161)
तं तु पश्यन्ति पुरुषा जितदक्रोधा जितेन्द्रियाः।
ब्राह्मणास्तपसा युक्ता यथाशक्ति प्रदायिनः॥ 14-92-74(95162)
सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च।
दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः॥ 14-92-75(95163)
रन्तिदेवो हि नृपतिरपः प्रादादकिंचनः।
शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः॥ 14-92-76(95164)
न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः।
न्यायलब्धैर्यथा सूक्ष्मैः श्रुद्धापूतैः स तुष्यति॥ 14-92-77(95165)
गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः।
एकां दत्त्वा स पारक्यां नरकं समपद्यत॥ 14-92-78(95166)
आत्ममांसप्रदानेन शिबोरौशीनरो नृपः।
प्राप्य पुण्यकृताँल्लोकान्मोदत दिवि सुव्रतः॥ 14-92-79(95167)
विभवेन नृणां पुण्यं यच्छत्त्या स्वार्जितं न तत्।
न यज्ञैर्विविधैर्विप्र यथान्यायेन संचितैः॥ 14-92-80(95168)
क्रोधाद्दानफलं हन्ति लोभात्स्वर्गं न गच्छति।
न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते॥ 14-92-81(95169)
न राजसूयैर्बहुभिरिष्टा विपुलदक्षिणैः॥
न चाश्वमेधैर्बहुभिः फलं सममिदं तव॥ 14-92-82(95170)
सक्तुप्रस्थेन विजितो ब्रह्मलोकस्त्वयाऽक्षयः।
विरजो ब्रह्मसदनं गच्छ विप्र यतासुखम्॥ 14-92-83(95171)
सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम्।
आरोहत यथाकामं धर्मोस्मि द्विज पश्य माम्॥ 14-92-84(95172)
बाधितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते।
सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज॥ 14-92-85(95173)
इत्युक्तवाक्ये धर्मे तु यानमारुद्य स द्विजः।
सदारः ससुतश्चैव सस्नुषश्च दिवं गतः॥ 14-92-86(95174)
तस्मिन्विपरे गते स्वर्गं ससुते सस्नुषे तदा।
भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात्॥ 14-92-87(95175)
ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च।
दिव्यपुष्पविमर्दाच्च साधोर्दानलवैश्च तैः॥ 14-92-88(95176)
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम्।
तस्य सत्याभिसन्धस्य सक्तुदानेन चैव ह॥ 14-92-89(95177)
शरीरार्धं च मे विप्राः शातकुंभमयं कृतम्।
पश्यतेमं सुविपुलं तपसा तस्य धीमतः॥ 14-92-90(95178)
कथमेवंविधं स्याद्वै पार्श्वमन्यदिति द्विजाः।
तपोवनानि यज्ञांश्च हृष्टोऽभ्योमि पुनः पुनः। 14-92-91(95179)
यज्ञं त्वहमिमं श्रुत्वा रुरुराजस्य धीमतः।
आशया परया प्राप्तो न चाहं काञ्चनीकृतः॥ 14-92-92(95180)
ततो मयोक्तं तद्वाक्यं प्रहस्य ब्राह्मणर्षभाः।
सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा॥ 14-92-93(95181)
सक्तुप्रस्थलवैस्तैर्हि तदाऽहं काञ्चनीकृतः।
न हि यज्ञो महानेष सदृशस्तैर्मतो मम॥ 14-92-94(95182)
इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा।
जगामादर्सनं तेषां विप्रास्ते च ययुर्गृहान्॥ 14-92-95(95183)
एतत्ते सर्वमाख्यातं मया परपुरंजय।
यदाश्चर्यमभूत्तत्र वाचिमेधे महाक्रतौ॥ 14-92-96(95184)
न विस्मयस्ते नृपते यज्ञे कार्यः कथञ्चन।
ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः॥ 14-92-97(95185)
अद्रोहः सर्वभूतेषु संतोषः शीलमार्जवम्।
तपो दमश्च सत्यं च प्रदानं चेति संमितम्॥ ॥ 14-92-98(95186)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्विनवतितमोऽध्यायः॥ 92 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-92-2 कपोतवदेकैकं कणमादत्ते स कापोतिः॥ 7-92-8 उंछं कणश आदानं कर्तुमिति शेषः। शुक्लस्य ज्येष्ठस्य पक्षे॥ 7-92-56 अवेक्ष्या पालनीया। चिन्त्या परीक्षणीया॥ 7-92-58 हे वरे श्रेष्ठे महाभागे त्वां धर्मभृतां मध्ये गणयित्वा सक्तून् ग्रहीष्यामीत्यन्वयः॥ 7-92-84 तारितो हि त्वयेति झ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|